अभिज्ञानशाकुन्तले श्लोकचतुष्टयम्

Sharing is caring!

कविता-वनिता-विलासः, वाणीपादपद्मविसजीविरसिकराजहंसः महाकवि-कालिदासः संस्कृतसाहित्यजगति देदीप्यमानदीपशिखेव राजते। अतः उच्यते- “KALIDS THE SHAKESPEARE OF INDIA.”
पुनश्च –
“पुष्पेषु जाती नगरेषु काशी नारीषु रम्भा पुरूषेषु विष्णुः ।
नदीषु गङ्गा क्षितिषेषु रामः काव्येषु माघः कविकालिदासः”॥ इति॥
कविकुलगुरुकालिदासः संस्कृतसाहित्याकाशस्य उज्ज्वलतारकासदृशः अस्ति । तस्य पीयूषस्त्रविणी अमोधवर्षिणी लेखनीतः नाटयत्रयं यथा – मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम्, महाकाव्यद्वयं-कुमारसम्भवम्, रघुवंशम्, गीतिकाव्यद्वयं – ऋतुसंहारः, मेघदूतम्, इति सृजति । एतासु रचनासु अभिज्ञानशाकुन्तलम् सर्वश्रेष्ठं भवति। अतएवोच्यते –
“काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला।
तत्रपि च चतुर्थोऽङ्कःस्तत्र श्लोकचतुष्टयम्”॥
अभिज्ञानशाकुन्तलनाटके धीरोदात्तनायक: राजा दुष्यन्त एवं मुग्धानायिका अनन्यासुन्दरीशकुन्तला । अस्य नाटकस्य अङ्गिरसः विप्रलम्भशृङ्गारः, अङ्गरसाः करुणवीरविभत्सादयः । अत्र चतुर्थाङ्कस्य श्लोकचतुष्टयविषयसारः संक्षेपेण प्रस्तूयते ।
अस्य नाटकस्य चतुर्थाङ्के दुर्वासोमहर्षेः शकुन्तलां प्रति अभिशापः, एवं शकुन्तलायाः पतिगृहगमनकालस्य अवस्था वर्णितास्ति । पुनश्च अतीव महत्वपूर्णश्लोकचतुष्यविषयेऽपि वर्णना दृश्यते ।
यथा – प्रथमश्लोक:-
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया,
कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं ममतावदीदृशमिदं स्नेहादरण्यौक सः,
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥ 4/6
शकुन्तलाया: पतिगृहगमनवेलायां पितु कण्वस्य हृदयं व्यथितं भवति, अश्रुप्रवाहावरुद्धत्वात् कण्ठस्तम्भितो भवति, चिन्तायाः इन्द्रियसमुदायः जडः भवति ।
पुत्रीवियोगपीडाभिः पीडितो भवति महर्षिकण्वः । श्लोकेऽस्मिन् कण्वमुनिः कन्यायाः गमनकाले स्वमनस यां अवस्थां वर्णयति सा अवस्था न केवलं स्वस्य अपितु सर्वेषां पितृणां मनसोऽवस्था एषा । कन्यायाः गमनकाले कण्वमुने मनसोऽवस्था सांसारिकगृहसापेक्षया न न्यूनम्। अतः कालिदासेन श्लोकेऽस्मिन् सार्वजनीनमनोभावः वर्णित: । अतः नाटकेऽस्मिन् श्लोकोऽयं श्रेष्ठश्लोकरुपेण परिगणितो भवति ।
द्वितीयश्लोकः –
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या,
नादत्ते प्रियमण्डनाऽपि भवतां स्नेहेन या पल्लवम् ।
आद्ये व: कुसुमप्रसूतिसमये यस्या भवत्युत्सवः,
सेयं याति शकुन्तला पतिगृहं सवैरनुज्ञायताम् ॥ 4/5
अस्मिन् श्लोके महर्षिकण्वः सन्निहिततपोवनतरो: आदेशस्वीकरणाय वदति भोभो ! आश्रमतरवः भवत्सु असिक्तेषु या जलं न पिवति, या प्रियमण्डनाऽपि स्नेहेन भवतां पत्रम् न गृह्णाति, या भवतां कुसुमप्रसूतिसमये उत्सवं परिपालयति सा शकुन्तला संप्रति भर्त्तु: गृहं गच्छति अतः आदिष्यताम् । अत्र शकुन्तलाया: प्रकृतिप्रेमत्त्वात् श्लोकोऽयं सर्वजनविदितः ।
तृतीयश्लोकः –
“अस्मान्साधु विचिन्य संयमधनानुच्चैः कुलं चात्मन,
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं बधूबन्धुभिः”॥ 4/17
श्लोकेऽस्मिन् कण्वमुनेः दुष्यन्तं प्रति कन्यायाः सुरक्षायै यत् निवेदनं तत् तु जगतः सर्वाषां कन्यानां कृते पितॄणां अन्तकरणस्य निवेदनम्। अतः श्लोकोऽयं श्रेष्ठश्लोकरुषेण परिगणितो भवति ।
चतुर्थश्लोकः –
“शुश्रूषस्व गुरुन् कुरु प्रियसखी वृत्तिं सपत्नीजने
भर्तु र्विप्रकृतापि रोषणतया मा स्म प्रनीपं गमः ।
भूमिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः”॥ 4/18
अस्मिन् श्लोके महर्षिकण्वः शकुन्तलां चारित्रिकशिक्षां प्रददाति । अस्यायमर्थः भवतिः हे शकुन्तले ! त्वं यदा पतिगृहं प्राप्स्यसि तदा तत्रत्यानां गुरुजनानां सेवा कुरू, सपत्नीनां सविधे प्रियसख्याः व्यवहारं प्रदर्शय, केनापि कारणेन यदि तव स्वामी कोधित: भुत्वा त्वां किमपि कथयिष्यसि तदा त्वं कोपेन तस्य किमपि प्रतिकूलं नाचर, ये तव परिजनाः स्युः तेषां कृते त्वं नितराम् उदारा भव । पुनश्च राजकीय भोगवैभवे आकृष्टा कदाचित् मा भव । एवं यदि काचित् कन्या आचरति तर्हि सा गृहिणीपदवाच्या भवितुर्महति । किन्तु अस्य याः विपरीताचरणं कुर्वन्ति ता: सर्वा: युवतयः कुलस्य कलङ्करुपाः भवन्ति। अतः त्वं यथा सुगृहिणी भूविष्यसि तदर्थमवश्यं ममोपदेशं परिपालय।
श्लोकेऽस्मिन् कण्वमुनेः उपदेशोऽयं न तु केवलं स्वकन्यां शकुन्तलां प्रति, अपितु भारतीयसंस्कृतेः भारतीयवधूजनं प्रति प्रयुज्यः । अत: श्लोकोऽयं श्रेष्ठश्लोकरुपेण परिगणितः ।
एवं प्रकारेण पुण्यश्लोकमहाकविकालिदासः रमणीयं, मनोमुग्धकरं, चिताकर्षकं, नीत्यादेशादि गुम्फितश्लोकचतुष्टयं उपस्थापयति चतुर्थाङ्के करोति ।

Leave a Reply

Your email address will not be published. Required fields are marked *