वर्तमाने स्मृतिशास्त्राणां धर्मशास्त्राणाञ्च प्रासङ्गिकता
तिष्ठत्येकाऽवधारणा भारते सम्प्रति यत् कर्मकाण्डपूजनाद्येकमेव धर्म: तथा च एताभ्यामुभाभ्यां युक्तशास्त्रमेव धर्मशास्त्रमिति । परं प्राचीनैः धर्मशास्त्रकारैः स्मृतिकारश्चाभिहितं वर्तते यत् – धर्मनाम कर्तव्यनियमश्चेति । शक्यतैव वक्तुं लोकः यं धारयति वा लोक: येन धृतो भवति स धर्म उक्तं महाभारते –
“धारणाद्धर्मो इत्याहुः धर्मो धारयेत् प्रजा ” । (महाभारत)
“चोदना लक्षणो अर्थो धर्म :” । (जैमिनिन्यायमाला)
तथा च धर्मस्य यत् शास्त्रं विद्यते तद्धर्मशास्त्रमिति तथा च निखिलशास्त्रमधिकृत्य सकललोकहिताय मन्वादि प्रणितशास्त्रमेव धर्मशास्त्रम् । नास्ति सन्देहकथने यत् जीवनयापनस्यैका कला विद्यते धर्मशास्त्रे । उक्तं धर्मशास्त्रं न कर्मकाण्डीयमपितु नैतिकचारित्रिकशिक्षामपि प्रयच्छति । एतादृशी शिक्षा सम्प्रत्यनुभुता बुधै: । यतोहि सम्प्रति व्यवहारपदानि पश्याम: तत्रापि बलपूर्वकेण परस्त्रिगमनादिकं व्यवहारश्चेत् 2017 तमे वर्षे 5007044 सर्वकारीयलेखानुगुणं विवादा: सञ्जाता:, तथा च सम्प्रत्यपि न्यायालये 146201 इति संख्यकानि विवादपदानि निर्णयाधिनानि वर्तन्ते । एकां घटनामुपस्थापयितुं वाञ्छामि समाचारपत्रानुगुणमुत्तरप्रदेशस्य फैजाबादनामख्यनगरे आरक्षकै एतादृशं क्रमं सम्पादितम् । यदा रक्षका: भक्षका: भविष्यन्ति चेत् का गति राष्ट्रस्य अत एतेषां नियुक्ति: शास्त्रानुगुणं स्यादुक्तं यथा –
“श्रुताध्ययनसम्पन्ना धर्मज्ञ: सत्यवादिन: ।
राज्ञ: सभासद: कार्या: रिपो मित्रे च ये समा” ।। (याज्ञ.स्मृति)
अत: यदनुभूयते तस्य परिवर्तनं शिक्षया भवितुं शक्यते । अत: समाजे यत् प्रचलति तन्निमित्तं धर्मशास्त्रोक्तं शिक्षा प्रदातव्या: । अन्यथा समाजस्य समज इत्यस्मिन् रुपे परिवर्तनं भविष्यति । यतोहि जीवनस्य सङ्घटनाय नीत्यपेक्षते जीविका सङ्घटनाय कौशलानि च । अकुशला नीति: किमपि सामाजिकं प्रयोजनं नोपकुर्यात् । एवं विधा नीतिस्तु समाजस्य क्षतिमेव सम्पादयति । ये नीतियुक्तशिक्षाविहिनास्तर्हि ते कर्तव्याकर्त्तव्यं सुनिश्चेतुमनर्हा: ।
अनिश्चोऽयं तस्मिन् दुराचारात्वं मिथ्याचारत्वं वा जनयेत् । आचार्यैरुक्तं सोऽन्यान् प्राणिनो हत्वा तेषां मांसेन स्वकलेवरं पुष्णाति, मद्यं पीत्वा स्वमस्तिष्कस्य कर्मनिर्णयक्षमतां नश्यति, अन्यासु नारीषु मातृ भगिनिबुद्धिमकृत्वा ताभि: व्यभिचरति । जीविकायां सत्यामपि रतो मनुष्य: नैव निवर्तेत चेदस्य जीवनं वृथा यदुक्तं –
“न मांसभक्षणे दोषो न मये न मैथुने ।
प्रवृतिरैषां भूतानां निवृत्तिस्तु महाफला” ।। (मनुस्मृति)
स्पष्टं यत् मानवजीवनं नीतिशिक्षयैव संघटयति । जीवनसंघटनार्हा नीतिशिक्षा अभिष्टा अत: विनयस्तस्याः प्रासङ्गिको विषय: । विनयेन शील सच्चरित्रादयो निखिलाऽपि सदगुणा: द्योतयन्ते । प्रायेण विनयादि सदगुणा: मनुष्यस्य नैतिकव्यवहारे अन्तर्भवति । अत एव शिक्षाया: सर्वैष्वपि निर्धार्यमाणेषु लक्ष्येषु चरित्रं प्रधानलक्ष्यत्वेनाड्गी क्रियते । आचारस्य धर्मत्वमपि तस्य प्राधान्ये भवति प्रमुखो हेतुः । यथोक्तं मनुना –
आचर: परमो धर्म: श्रुत्युक्त: स्मार्त एव च ।
तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्दिवः । । (मनुस्मृति:)
अर्थादाचारहीनो न वैदिकफलं प्राप्नुयात् । आचारयुक्तो एव समग्रफलं प्राप्नोति । तथैव नैतिकशिक्षाविहिना: मानवा: तदीयस्य यौवनस्य सम्पदां, विवेकस्य चापि दुरूपयोगमेव सम्पादयति । नैतिकतायाच्युत: चरित्रात्च्युतो भवत्येव । वस्तुत: सच्चरित्रे शीलस्य नैतिकतायां विद्यमानभावनाया इदमेव निहित्वं यत् मानव: स्वीयसुखं विहाय अपरस्मै सुखं प्रयच्छेत् । स्वार्थं परित्यज्य परमार्थमाश्रयेत् यतोहि अधर्मस्याचरणेन मानवा: न कदापि सुखं लभन्ते । उक्तं यथा –
अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
हिसारतश्च यो नित्यं नेहासौ सुखमेधते ।। (मनुस्मृति:)
सर्वदा नैतिकोपदेश: प्रत्यक्षरुपेणैव प्रदातव्य: । जीवनस्य घटनाभि: स्थितिभिश्च सार्धं तस्य अभ्यासं सम्पाद्य तस्या धारणया वृत्या च समवेता नैतिकशिक्षा प्रदातव्या । जना अध्यापकाश्च स्वीयचरित्रबलेन विशेषनैतिकस्थित्या च छात्रानाकर्षेत । आचार्यमनु: चरित्रविकासे बलं प्रदत्तं यथोक्तम् –
एतद्देश प्रसूतस्य सकाशादग्रजन्मन: ।
स्वं स्वं चरित्रं शिक्षेस्पृथिव्या सर्वमानवा: ।। (मनुस्मृति: )
एवं भूता धर्मशास्त्रग्रन्था: प्राचीना: सत्यपि वर्तमानसमाजस्य विकासे महत्त्वपूर्णां भूमिकां भजते । मन्ये युगोऽयमाधुनिको अत: प्राचीनपरम्पराव्यवस्था च समग्ररुपेण नैवाड्गिक्रियते । तथापि तत्रनिहिता: ये नैतिकचारित्रिकगुणयुक्ता: मौक्तिका: अस्माभि: ग्रहणीया: । अनेन समाजे या विचारधारा प्रचाल्यमाना तथा च पाश्चात्यसंस्कृत्यो: प्रभावो दरीदृश्यते । तयो: प्रभाव: गभीरगर्ततां प्रापस्यन्ति । मतं मे वर्तते यत् आपराधिकगति-विधय:, तथा च युवानां या विचारधारा वर्तते ता: वारणाय शास्त्रशस्त्रञ्च सदृशेति ।
शैलेशकुमारजैमन:
व्याख्याता: (साहित्यविभाग)
राज. महाराज आचार्य संस्कृत महाविद्यालय, जयपुर
सन्दर्भग्रन्थसूची –
1. मनुस्मृति: – टी मन्वर्थमुक्तावली दे . प्रकाशन
2. याज्ञवल्क्यस्मृति: – व्याख्याकार, डा. उमेशचन्द्रपाण्डेय
3. जैमिनिन्यायमाला – चिन्नास्वामी
4. धर्मशास्त्र का इतिहास – पी. वी. काणे, उत्तरप्रदेश
5. राष्ट्रिय अपराधिक ब्यूरो